या वां॒ सन्ति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा। अ॒स्मे ता य॑ज्ञवाह॒सेन्द्र॑वायू॒ नि य॑च्छतम् ॥४॥
yā vāṁ santi puruspṛho niyuto dāśuṣe narā | asme tā yajñavāhasendravāyū ni yacchatam ||
याः। वा॒म्। सन्ति। पु॒रु॒ऽस्पृहः॑। नि॒ऽयुतः॑। दा॒शुषे॑। न॒रा॒। अस्मे इति॑। ताः। य॒ज्ञ॒ऽवा॒ह॒सा॒। इन्द्र॑वायू॒ इति॑। नि। य॒च्छ॒त॒म् ॥४॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे यज्ञवाहसा नरेन्द्रवायू ! वां या नियुतः पुरुस्पृहो दाशुषे सन्ति ता अस्मे नि यच्छतम् ॥४॥